वांछित मन्त्र चुनें

तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒तः । तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये ॥

अंग्रेज़ी लिप्यंतरण

taṁ yajñam barhiṣi praukṣan puruṣaṁ jātam agrataḥ | tena devā ayajanta sādhyā ṛṣayaś ca ye ||

पद पाठ

तम् । य॒ज्ञम् । ब॒र्हिषि॑ । प्र । औ॒क्ष॒न् । पुरु॑षम् । जा॒तम् । अ॒ग्र॒तः । तेन॑ । दे॒वाः । अ॒य॒ज॒न्त॒ । सा॒ध्याः । ऋष॑यः । च॒ । ये ॥ १०.९०.७

ऋग्वेद » मण्डल:10» सूक्त:90» मन्त्र:7 | अष्टक:8» अध्याय:4» वर्ग:18» मन्त्र:2 | मण्डल:10» अनुवाक:7» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्रतः-जातम्) पूर्व से प्रसिद्ध (तं यज्ञं पुरुषम्) उस यजनीय सङ्गमनीय परमात्मा को (बर्हिषि-प्र औक्षन्) हृदयाकाश में आर्द्रभावना से सींचते हैं, प्रसन्न करते हैं (च) और (तेन) उस परमात्मा द्वारा अर्थात् उसे लक्षित कर (देवाः) अन्य विद्वान् (ये) जो (साध्याः-ऋषयः) साधनापरायण मन्त्रद्रष्टा जन (अयजन्त) अध्यात्मयज्ञ करते हैं ॥७॥
भावार्थभाषाः - परमात्मा पूर्व से प्रसिद्ध वर्त्तमान है, उस समागम के योग्य को साधनापरायण ऋषिजन हृदयाकाश में आर्द्रभावनाओं, श्रद्धा प्रेम भरी स्तुतियों द्वारा प्रसन्न करते हैं, तो उनके अन्दर वह साक्षात् होकर कल्याण का निमित्त बनता है ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्रतः-जातं तं यज्ञं पुरुषम्) पूर्वतः प्रसिद्धं तं यजनीयं सङ्गमनीयं परमात्मानं (बर्हिषि-प्र औक्षन्) हृदयाकाशे-“बर्हिः-अन्तरिक्षनाम” [निघं० १।३] आर्द्रभावनाभिः सिञ्चन्ति-प्रसादयन्ति (च) तथा (तेन) पुरुषेण परमात्मना-तं लक्षयित्वा (देवाः) अन्यविद्वांसः (ये) ये खलु (साध्याः-ऋषयः) साधनापरायणाः-मन्त्रद्रष्टारः (अयजन्त) अध्यात्मयज्ञं कृतवन्तः ॥७॥